Devabhasha Songs and Shlokas

Class 7

Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Yashavardhan Bhat (Mantra Chanting)
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.

त्वमादिदेवः पुरुषः पुराणः
त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्तरूप ।।
Listen to Tvamadi Devah


वायुर्यमोऽग्निर्वरुणः शशाङ्कः
प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्रकृत्वः
पुनश्च भूयोऽपि नमो नमस्ते ।।

Listen to Vayur Yamognih


सत्त्वं प्रभो! त्वं मयि धेहि सत्त्वं
तेजोऽसि हे देव! ददस्व तेजः ।
त्वं बोधरूपोऽसि विधेहि बोधं
दयामयस्त्वं च दयां कुरुष्व।।
Listen to Sattvam Prabho Tvam


विकसतु मित्रभावना
विलसतु बन्धुभावना ।।
गौरोऽहं कृष्णस्त्वम्
विप्रोऽहं शूद्रस्त्वम् ।
यातु सदा विलयमियं भेदभावना ।।

अधनस्त्वं सधनोऽहम्
अबुधस्त्वं विबुधोऽहम्
यातु सदा विलयमियं हीनभावना ।।

मम वाणी अतिविमला
तव वाणी अतिविकला ।
यातु सदा विलयमियं द्वेषभावना ।।

मम देवो महागुणी
तव देवोऽतिदुर्गुणी
यातु सदा विलयमियं क्षुद्रभावना ।।

विषममिदं बहिरङ्गम् ।
आन्तरं तु सममङ्गम्
जनहृदये स्फुरतु इयं शुद्धभावना ।

डाँ० श्रीधरभास्कर वर्णेकर

Listen to Vikasatu Mitrabhavana


दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।।


वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते ।।


निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ।।


कुतस्त्वा कश्मलमि दं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यम् अकीर्तिकरमर्जुन ।।


क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ।।



कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ।।


कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म सम्मूढ -चेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।।


अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।।


न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो- न हन्यते हन्यमाने शरीरे ।।


वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ।।


नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।।


स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते ।।


हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ।।


मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ।।


सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ।।


नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ।।


यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ।।


भग्नाशस्य करण्डपीडिततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।

तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ।।

Listen to Bhagnashasya


खल्वाटो दिवसेश्वरस्य किरणैः सन्तापितो मस्तके
वाच्छन् देशमनातपं विधिवशात् तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ।।
Listen to Khalvato Divaseshwarasya


मधुराष्टकम्
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् ।
हदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ।। १ ।।

वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।। २ ।।

वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ३ ।।

गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ।।

करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् ।
वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।।

गुज्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा।
सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ६।।

गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ७ ।।

गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा।
दलितं मधुरं वलितं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ८ ।।

Listen to Adharam Madhuram


सैन्यगीतम्
चलन्तु वीरसैनिकाः प्रयान्तु वीरसैनिकाः
सगौरवं सडिण्डिमं व्रजन्तु वीरसैनिकाः ।
त्रिवर्णभारतध्वजं नमन्तु वीरसैनिकाः
धरातले स्ववीरतां प्रसारयन्तु सैनिकाः ।। १ ।।

स्वलक्ष्यमस्तु केवलं विपक्षपक्षखण्डनम्
स्वशत्रुरक्तशोणितैः स्वभूमिभालमण्डनम् ।
विमोहभीतिकम्पनं त्यजन्तु वीरसैनिकाः
चलन्तु वीरसैनिकाः प्रयान्तु वीर सैनिकाः ।। २ ।।

करे सुशस्त्रमण्डनं स्वरे च सिंहगर्जनम्
जने जने व्रतं दृढं स्वमातृभूमिरक्षणम् ।
स्वदेश-पुण्य-गौरव स्मरन्तु वीरसैनिकाः
सदैव कर्मवीरतां भजन्तु वीरसैनिकाः ।। ३ ।।

नभो विशालमण्डले जयध्वजप्रसारिणी
प्रयातु वीरवाहिनी कृपाणबाणधारिणी ।
सुदुर्गमे जले स्थले व्रजन्तु वीरसैनिकाः
चलन्तु वीरसैनिकाः प्रयान्तु वीरसैनिकाः ।। ४ ।।

समुद्रदुर्गपर्वताः सहस्रमार्गबाधकाः
पदं न जातु कम्पतां भवन्त्यसङ्ख्यकण्टकाः ।
पदं सदैव वर्धतां मनोबलं प्रवर्धताम्
न कर्मधर्मभूमितः स्खलन्तु वीरसैनिकाः ।। ५।।

प्रचण्डभास्करातपोऽथवा हिमप्रवर्षणम्
पदं तु नावरोधयेत् कठोरवज्रवर्षणम् ।
अखण्डपौरुषैर्धरां जयन्तु वीरसैनिकाः
चलन्तु वीरसैनिकाः प्रयान्तु वीरसैनिकाः ।। ६ ।।

डा० हरिदत्त शर्मा

Listen to Devbhasha Chalantu Veerasainikah


दानवीरशिविः
आसीत् पुरा नरपतिस्तपस्वी करुणापरः ।
दाता वीरः शिविर्नाम महात्मा भूमिपालकः ।। १ ।।

इन्द्रः विज्ञाय तत्कीर्ति कृत्वा श्येनवपुः स्वयम् ।
मायाकपोतं निर्माय धर्ममन्वपतद् द्रुतम् ।। २ ।।

कपोतश्च ततो भीत्वा नृपस्य शरणं गतः ।
मनुष्यवाचा श्येनोऽथ सः तं राजानमब्रवीत् ।। ३ ।।

राजन्! भक्ष्यमिमं मुञ्च कपोतं क्षुधितस्य मे।
यदि भक्ष्यं न खादेयं मृत्युं प्राप्स्याम्यहं धुवम्।। ४ ।।

ततः शिविरुवाचैनम् एष मे शरणागतः ।
अत्याज्यस्तद् ददाम्यन्यद् मांसमेतत् समं तव ।। ५ ।।

श्येनो जगाद यद्येवम् आत्ममांसं प्रयच्छ मे।
तदैव मांसमुत्कृत्य शिविर्दातुं समुद्यतः।। ६।।

यथा यथा स्वयं मांसम् उत्कृत्यारोपयन्नृपः ।
तथा तथा तुलायां स कपोतोऽप्यधिकोऽभवत् ।। ७ ।।

ततः शरीरं सकलं तुलां राजाध्यारोपयत् ।
साधु साधु समं त्वेतद् दिव्या वागभवत् तदा ।। ८ ।।

इन्द्रधर्मौ ततः त्यक्त्वा रूपं श्येनकपोतयोः ।
तुष्टावक्षतदेहं तं राजानं चक्रतुः शिविम् ।। ९ ।।

तदा प्रभृति सर्वत्र परां ख्यातिमुपागतः ।
दानवीरो धर्मवीरः शूरश्चासीत् शिविर्नृपः ।। १० ।।

Listen to Danavirah Shivih


सीमन्तिनीषु का शान्ता?
राजा कोऽभूत् गुणोत्तमः?
विद्वद्भिः का सदा वन्द्या?
अत्रैवोक्तं न बुध्यते ।
Listen to Simiantinishu


कं संजघान कृष्णः?
का शीतलवाहिनी गङ्गा
कं बलवन्तं न बाधते शीतम्?
Listen to Kamsam Jaghana Krishna


सर्वस्वापहारे न तस्करगणो रक्षो न रक्ताशनः
सर्पो नैव विलेशयेऽखिलनिशाचारी च भूतोऽपि न ।
अन्तर्धानपटुर्न सिद्धपुरुषो नाप्याशुगो मारुतः
तीक्ष्णास्यो न तु सायकस्तमिह ये जानन्ति ते पण्डिताः ।।
Listen to Sarvasvapaharo


सर्पं दृष्ट्वा न भवति भीतः ।
किमस्य नाम सदा जाग्रतः ।।


जले वसामि च भूमौ वसामि ।
चलामि मन्दं वद कोऽहमस्मि ।।
Listen to Jale Vasami Cha


भोगा न भुक्ता वयमेव भुक्ताः तपो न तप्तं वयमेव तप्ताः ।
तृष्णा न जीर्णा वयमेव जीर्णा कालो न यातो वयमेव याताः ।।
Listen to Bhogaa na Bhuktaa


घृष्टं घृष्टं पुनरपि पुनः चन्दनं चारुगन्धं
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ।
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं
प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ।।
Listen to Ghrishtam Ghrishtam


परिवर्तिनि संसारे मृतः को वा न जायते ।
स जातो येन जातेन याति वंशः समुन्नतिम् ।।
Listen to Parivartini Samsare


दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ।।
Listen to Durjanah Parihartavyah


सम्पत्सु महतां चित्तं भवत्युत्पल-कोमलम् ।
आपत्सु च महाशैल-शिला-सङ्घात-कर्कशम् ।।
Listen to Sampatsu Mahatam Chittam


श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।
विभाति कायः करुणापराणां परोपकारैर्न तु चन्दनेन ।।
Listen to Shrotram Shrutenaiva



आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
नास्त्युद्यमसमोबन्धुः कुर्वाणोनावसीदति।।
Listen to Alasyam hi Manushyanam



छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न विप्लुता लोके ।।
Listen to Chinnopi Rohati Taruh



येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति ।।
Listen to Yesham na Vidya


प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ।।
Listen to Prarabhyate na Khalu


उदीर्ध्वं जीवो असुर्न अगादप प्रगात् तम आ ज्योतिरेति ।
आरैक् पन्था यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ।। ऋग्वेदः, १. ११३. १६
Listen to Udirdhvam Jivo


यां रक्षन्त्यस्वप्रा विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ।। अथर्ववेदः, १२७
Listen to Yam Rakshantyasvapna


एको हंसो भुवनस्यास्य मध्ये स एवाग्निः सलिले सन्निविष्टः ।
तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय ।। श्वेताश्वतरोपनिषद् ६.१५
Listen to Eko Hamso Bhuvanasyasya Madhye


प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ।
मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि नः ।। प्रश्नोपनिषद्, २.१३
Listen to Pranasyedam Vashe Sarvam


ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते।
सङ्गात्सजायते कामः कामात्कोधोऽभिजायते।।श्रीमद्भगवद्गीता, २.६२
Listen to Dhyayato Vishayan Pumsah


क्रोधाद् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणस्यति ।। श्रीमद्भगवद्गीता, २.६३


कृष्णार्जुन संवादः
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सु समुपस्थितम् ।
सीदन्ति मम गात्राणि मुखं च परिशुष्यति । ।१
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ।
गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते । ।२
निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे । ।३
कुतस्त्वा  कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यम् अकीर्तिकरमर्जुन ।।४
क्लैव्यं मा स्म गमः पार्थ नैतत्त्वस्तुपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ।।५
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन  ।
इषुभिः प्रतियोत्स्यामि  पूजार्हावरिसूदन ।।६
कार्पण्य-दोषोपहत-स्वभावः
पृच्छामि त्वां धर्म सम्मूढ -चेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् । ।७
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ।।८
न जायते म्रियते वा कदाचि- न्नायं भूत्वा भविता वा न भूयः ।
अजो नित्यः शाश्वतोऽयं पुराणो- न हन्यते हन्यमाने शरीरे । ।९
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही । ।१०
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः । ।११
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत् क्षत्रियस्य न विद्यते । ।१२
हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः । ।१३
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः । ।१४
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः । ।१५
नष्टो मोहः स्मृतिर्लब्धा  त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव । ।१६
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिध्रुवा  वा नीतिर्मतिर्मम ।।१७

Listen to Sri Krishnarjuna Samvada

Back to Top