Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Yashavardhan Bhat (Mantra Chanting)
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम् ।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन । ।
नमः सर्वहितार्थाय जगदाधारहेतवे ।
साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः । ।
असितगिरिसमं स्यात् कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं
तदपि तव गुणानाम् ईश पारं न याति । ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर । ।
सर्वेषां पूर्णं भवतु सर्वेषां मङ्गलं भवतु । ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभागभवेत् । ।
वर्तते मे न पश्यामि दक्षा जानन्ति मां जनाः । ।
प्रयामि प्रातः प्रातः सदैव ।।
धावामि नित्यं चरणौ न मे स्तः ।
शृणोमि सम्यक् श्रवणे न मे स्तः । ।
यः समक्षोऽपि सभ्यानां जाल्मः कोऽयमितीर्यताम् ।।
कोऽयं जीवः शुभ्रः धवलः ।।
स्वयं गन्तुमसमर्थः परपादेन गच्छति ।।
बलिष्ठोऽस्मि न भीमोऽस्मि कोऽस्म्यहं नासिकाकरः । ।
अयोध्यावर्णनम्
कोशलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।। १ ।।
अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।। २ ।।
आयता दश च द्वे च योजनानि महापुरी ।
श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ।। ३ ।।
राजमार्गेण महता सुविभक्तेन शोभिता ।
मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः । । ४ । ।
तां तु राजा दशरथो महाराष्ट्रविवर्धनः ।
पुरीमावासयामास दिवि देवपतिर्यथा ।। ५।।
कपाटतोरणवतीं सुविशालान्तरापणाम् ।
सर्वयन्त्रायुधवतीमुषिता सर्वशिल्पिभिः ।। ६।।
सूतमागधसम्बाधां श्रीमतीमतुलप्रभाम् ।
उच्चाटालध्वजवतीं शतघ्नीशतसङ्कुलाम् ।। ७ ।।
वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
उद्यानाम्रवणोपेतां महतीं सालमेखलाम् ।। ८ ।।
दुर्गगम्भीरपरिखां दुर्गामन्यैर्दुरासदाम् ।
वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ।। ९।।
सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ।। १० ।।
प्रासादै रत्नविकृतैः पवतैरिव शोभिताम् ।
कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् । । ११ । ।
चित्रामष्टपदाकारां वरनारीगणयुताम् ।
सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ।। १२ ।।
गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
शालितण्डुलसम्पूर्णामिक्षुकाण्डरसोदकाम् । ।१३ । ।
दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ।। १४ ।।
विमानमिव सिद्धानां तपसाधिगतं दिवि ।
सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ।। १५।।
ये च बाणैर्न विध्यन्ति विविक्तमपरापरम् ।
शब्दवेध्यं च विततं लघुहस्ता विशारदाः ।। १६ ।।
सिंहव्याघ्रवराहाणां मत्तानां नदतां वने ।
हन्तारो निशितैः शस्त्रैर्बलाद् बाहुबलैरपि ।। १७ ।।
तादृशानां सहस्रैस्तामभिपूर्णा महारथैः ।
पुरीमावासमायास राजा दशरथस्तदा ।। १८ ।।
(श्रीमद्वाल्मीकिरामायणम्, बालकाण्डम्)
मम देशो वेदवाणीं प्रकाशते ॥
भुवनेषु धूमः शुभगन्धयुतोऽयं व्याप्नुते हवनाश्रितो
विद्यापिपासुः ब्रह्मचारिगणोऽयं राजते च कुले गुरोः
आम्रनिकुञ्जे आम्रनिकुञ्जे कोकिलकूजो गुञ्जति वारं वारं
पश्य शोभा कथं रमणीया सदा वरणीया वसन्तसमागमे
मम देशो वेदवाणीं प्रकाशते ॥
चरणानि यस्य सततं क्षालयते दक्षिणादिशि सागरो
रमते शैलाधिराजश्चोत्तरस्यां देवतात्मा हिमालयो
गङ्गातीरे गङ्गातीरे निर्मलनीरे नृत्यति नौकायानं
शीतवातोऽरविन्दसुगन्धं प्रसारयतेऽयं विशालसरोवरे
मम देशो वेदवाणीं प्रकाशते ॥
स्वजनो श्वजनो मा भूत् शकलं सकलं सकृत् शकृत् । ।
सेतुर्येन महोदधौ विरचितः क्वासौ दशास्यान्तकः । ।
अन्ये येऽपि युधिष्ठिरप्रभृतयो याता दिवं भूपते ।
नैकेनापि समं गता वसुमती नूनं त्वया यास्यति । ।
प्रियं भारतम्
प्रकृत्या सुरम्यं विशालं प्रकामम्
सरित्तारहारैः ललामं निकामम्।
हिमाद्रिः ललाटे, पदे चैव सिन्धुः
प्रियं भारतं सर्वथा दर्शनीयम् ।। १ ।।
धनानां निधानं धरायां प्रधानम्
इदं भारतं देवलोकेन तुल्यम् ।
यशो यस्य शुभ्रं विदेशेषु गीतम्
प्रियं भारतं तत् सदा पूजनीयम् । । २ । ।
अनेके प्रदेशाः अनेके च वेषाः
अनेकानि रूपाणि भाषाः अनेकाः ।
परं यत्र सर्वे वयं भारतीयाः
प्रियं भारतं तत् सदा रक्षणीयम् । । ३ । ।
सुधीरा जना यत्र युद्धेषु वीराः
शरीरार्पणेनापि रक्षन्ति देशम् ।
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः
प्रियं भारतं तत् सदा श्लाघनीयम् । । ४ । ।
वयं भारतीयाः स्वभूमिं नमामः
परं धर्ममेकं सदा मानयामः ।
यदर्थं धनं जीवनं चार्पयामः
प्रियं भारतं तत् सदा वन्दनीयम् । । ५ । ।
डा० चन्द्रभानु त्रिपाठी
गतं न शोचामि कृतं न मन्ये ।
द्वाभ्यां तृतीयो न भवामि राजन्
किं कारणं भोज भवामि मूर्खः ॥
हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ।।
यत्नात् करोमि यदि चारुतरं करोमि।
भूपालमौलिमणिमण्डितपादपीठ
हे भोजराज कवयामि वयामि यामि ॥
नैव क्लिष्टा न च कठिना
सुरससुबोधा विश्वमनोज्ञा
ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा
नैव क्लिष्टा न च कठिना । । १ । । सुरससुबोधा.
व्यासविरचिता गणेशलिखिता
महाभारते पुण्यकथा ।
कौरव-पाण्डव-सङ्गर-मथिता
नैव क्लिष्टा न च कठिना । । २ । । सुरससुबोधा.
कविकोकिल-वाल्मीकि-विरचिता
रामायण-रमणीयकथा ।
अतीव सरला मधुरमञ्जुला
नैव क्लिष्टा न च कठिना । । ३ । । सुरससुबोधा.
सुरससुबोधा. कविकुलगुरु-नवरसोन्मेषजा
ऋतु-रघु-कुमार-कविता ।
विक्रम-शाकुन्तल-मालविका
नैव क्लिष्टा न च कठिना । । ४ । । सुरससुबोधा.
पं. वसन्त अनन्त गाडगील
उतामृतत्वस्येशानो यदन्नेनातिरोहति।।
ऋग्वेद, १०.९०.२
विद्म हि ते यथा मनोस्मभ्यमिन्न दित्ससि ।।
अरं कृण्वन्तु वेद समग्निमिन्धतां पुरः ।
अरं तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ।।
ऋग्वेद, ११.७०.३,४
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च।।
कठोपनिषद्, २.२.९
तैत्तिरीयोपनिषद्, २.७
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित्।।
श्रीमद्भगवद्गीता, २.२९
समुद्रमापः प्रविशन्ति यद्वत् ।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी । ।
श्रीमद्भगवद्गीता, २. ७०
स चिन्तयामास कुलानि काव्यं दारांश्च भोगांश्च सुखं धनानि॥
चक्रन्द भूमिः परितो मदीया खलो हि पुत्रानसुरो ममर्द।
स्वार्थेन नीतोऽहमनर्च पादौ दुरात्मनो भ्रातृवधेन लिप्तौ॥
सुखं मृदावास्तरणे शयानं सुखानि भोगान्वसु चिन्तयन्तम्।
पस्पर्श भीमेन करेण वक्षः प्रत्यक्षमक्ष्णोश्च बभूव काली॥
नरास्थिमालां नृकपालकाञ्चीं वृकोदराक्षीं क्षुधितां दरिद्राम्।
पृष्ठे व्रणाङ्कामसुरप्रतोदैः सिंहीं नदन्तीमिव हन्तुकामाम्॥
आपूर्य विश्वं पशुवद्विरावैर्लेलिह्यमानाञ्च हनू कराले।
क्रूराञ्च नग्नां तमसीव चक्षुर्हिंस्रस्य जन्तोर्जननीं ददर्श॥
भीतः समुद्विग्नमनाश्च तल्पादुत्थाय पप्रच्छ तमो नमस्यम्।
का भासि नक्तं हृदये करालि कुर्वीय किं ब्रूहि नमोऽस्तु भीमे॥
मातास्मि भोः पुत्रक भारतानां सनातनानां त्रिदशप्रियाणाम्।
शक्तो न यान् पुत्र विधिर्विपक्षः कालोऽपि नो नाशयितुं यमो वा॥
उत्तिष्ठ भो जागृहि सर्जयाग्नीन् साक्षाद्धि तेजोऽसि परस्य शौरेः।
वक्षः स्थितेनैव सनातनेन शत्रून् हुताशेन दहन्नटस्व॥
रक्तप्रवाहैरपि नास्मि तृप्ता शतैः सहस्रैरयुतैरजानाम्।
प्रदत्त भित्त्वा हृदयानि रक्तं सम्पूजयन्त्येवमजां करालीम्॥
सनातनान्याह्वय भारतानां कुलानि युद्धाय जयोऽस्तु मा भैः।
भो जागृतास्मि क्व धनुः क्व खड्ग उत्तिष्ठतोत्तिष्ठत सुप्तसिंहाः॥
कुलानि सुप्तानि सनातनानि ह्वातुं जगौ जागरणाय भीमा।
क्रूरं विरावौघमुदीरयन्ती पार्श्वे ममायाद्रजनीव घोरा॥
तदा तमिस्रामपसारयन्तं रक्तप्रकाशं दिवि बालसूर्यम्।
शरोपमैर्घ्नन्तमिवांशुभिस्तं प्रीतो ददर्शहमुदग्ररशिमम्॥
श्रीयादवं भव्यभतोयदेवं संहारदामुक्तिमुतासुभूतम् ॥
Comments are closed.