Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
असतो मा सद्गमय तमसो मा ज्योतिर्गमय।
मृत्योर्माऽमृतं गमय ॥
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥
मेघः गर्जति घड घड
करका निपतति तड तड ।
वर्षा वर्षति रिम् झिम्
विद्युत् विलसति चिम्-चिम् ।।
चुन्नु मुन्नु सदा खेलतः ।
इतो धावतः ततो धावतः
वारं वारं भूमौ पततः ॥
निपतति जम्बुः टप् टप् । बालः खादति गप् गप् ॥
वायुः प्रवहति हर हर । पत्रं निपतति खर खर ॥
विहगो ब्रूते चुन् चुन् । भ्रमरो गुंजति गुन् गुन्।।
गन्त्री गच्छति धक् धक् । बालः पश्यति टक् टक् ।
नमस्ते गणपतये। त्वमेव तत्त्वमसि । त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥
द्वौ हस्तौ मम द्वौ पादौ
द्वे नेत्रे मम द्वौ कर्णौ ।
एकं हृदयं एका जिह्वा
एकं वदनं एका ग्रीवा ।।
एषः वृक्षः विशालवृक्षः
वृक्षे नीडः अतिलघुनीडः ।
नीडे पक्षी पीतः पक्षी
करोति गानं चिचिची चिचिची ॥
एषः जनकः एषा जननी ।
एषः भ्राता एषा भगिनी ॥
एतन् मित्रं एषः बन्धुः।
एतच्चित्रम् एषः सिन्धुः ॥
एषा नारी एषा तारा ।
एषा गौरी एषा धारा ॥
अयं गणेशः एषः अरुणः ।
अयं महेशः एषः वरुणः ।।
Copyright © 2025. All Rights Reserved