Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
हे देव देव जननी जनकस्त्वमेव
भ्राता त्वमेव च सखा भगिनी त्वमेव।
त्वमेव धीस्त्वमसि धर्मधनं त्वमेव
त्वत्तः परं जगति किञ्चन नास्ति देव।।
एषः हस्तः एषः हस्तः दक्षिणहस्तः
एषः वामः हस्तः ।
एषः पादः दक्षिणपादः एषः वामः पादः ।।
का सा बाला? काञ्चनमाला!
गच्छति कुत्र? पठितुं मित्र ।
मधुरा बाला । भद्रसुशीला।
एवम्? आम्, आम्।।
एहि एहि वीर रे,
वीरतां विधेहि रे
पदं दृढं निधेहि रे
भारतस्य रक्षणाय जीवनं प्रदेहि रे ।।
त्वं हि मार्गदर्शकः
त्वं हि देशरक्षकः
त्वं हि शत्रुनाशकः
कालनागतक्षकः ।।
साहसी सदा भवेः
वीरतां सदा भजे
भारतीयसंस्कृतिं
मानसे सदा धरेः ।।
पदं पदं मिलच्चलेत्
सोत्साहं मनो भवेत्
भारतस्य गौरवाय
सर्वदा जयो भवेत् ।।
लक्ष्मीकान्त जाम्बोरकर
हसति गायति नृत्यति पश्यति भ्रमति धावति गच्छति पृच्छति ।
पिबति खादति क्रन्दति नन्दति वदति निन्दति खेलति हृष्यति ।।संपदानंद मिश्र
मार्जारीयं खादति मीनम् ।
पिबति च दुग्धं तिष्ठति मौनम् ।।संपदानंद मिश्र
सरस्वति महाभागे विद्ये कमललोचने ।
विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते ।।
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि ।
हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ।।
शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ।
पीताम्बरधरं देवं वन्दे विष्णुं चतुर्भुजम् ।।
नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्-व्यापिके विश्वरूपे ।
नमस्ते जगद्वन्द्य पादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ।।
तवैवाहं तवैवाहं तवैव शाश्वतीः समाः ।
सेवासक्तः सदा भक्तः प्रेमयोगपरायणः।।
सदा करोति विद्यार्थी सहनं सुखदुःखयोः ।
सुखं भवतु वा दुःखं विद्याभ्यासं करोति सः ।।
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः ।
प्राप्ते वसन्तकाले तु काकः काकः पिकः पिकः ।।
आचारः परमो धर्मः आचारः परमं तपः ।
आचारः परमं ज्ञानं आचारात् किं न सिद्धयति ।।
सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ।।
हसन्ति गगने ताराः सरोजानि सरोवरे ।
शिशवश्च शुभे गेहे भक्तानां हृदये हरिः ।।
मदीयं शरीरं स्वस्थं सुरूपं रोगविरहितं दृढं च नम्यम् ।
कार्ये सुदक्षं रुचिरं सुरम्यं भगवत्कार्यं कर्तुं निष्ठम् ।
अग्ने त्वं सु जागृहि वयं सुमन्दिषीमहि ।
रक्षाणो अप्रयुच्छन् प्रबुधे नः पुनस्कृधि ।। यजुर्वेद, ४ .१४
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिः ध्रुवा नीतिर्मतिर्मम ।। श्रीमद्भगवद्गीता, १८.७८
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
करमूले तु गोविन्दः प्रभाते करदर्शनम्।।
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिनमु कावेरि जलेऽस्मिन् सन्निधिं कुरु । ।
एहि सूर्य सहस्रांशो तेजोराशे जगत्पते ।
अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर ।।s
यायायायायायायायायायायायायायायाया ।
यायायायायायायायायायायायायायायाया ।।
गगनतलम् कमलदलम् ||1||
अलसजनः अचलमनः ||2||
गहनवनम्घ नगगनम् ||3||
नववचनम्प दरचनम् ||4||
खगडयनम् बकशयनम् ||5||
गजगमनम् अजवदनम् ||6||
चल नगरम् नयनहरम् ||7||
धवलशशः चपलमशः ||8||
कलशजलम् करकमलम् ||9||
परमपदम् यशजयदम् ||10||
सूर्यः गोलः सूर्यः गोलः चन्द्रः गोलः गोलः मम वागोलः ।
पृथ्वी गोला चक्रं गोलं गोलः मम रसगोलः ।।
चलामि मार्गे जले तरामि कूर्दे भूमौ सदा हसामि ।
पठामि गेहे कथां शृणोमि भ्रमामि नद्यास्तीरे ।।
शीतलवायुर्वहति सुमन्दम् आरोहति नौकां नरवृन्दं । गच्छति नौका दूरे ।।
मातृभूमे नमः मातृभूमेनमः।
मातृभूमे नमः मातृभूमे नमः ।।
अग्रतस्ते नमः पृष्ठतस्ते नमः ।
वामतस्ते नमः दक्षिणे ते नमः । । मातृभूमे नमः ।।ते गिरिभ्यो नमः ते नदीभ्यो नमः ।
ते वनेभ्यो नमः जनपदेभ्यो नमः ।। मातृभूमे नमः ।।
प्राणदे त्राणदे देवि शक्तिप्रदे ।
ऋद्धिदे सिद्धिदे भुक्तिमुक्तिप्रदे ।
सर्वदे सर्वदा देवि तुभ्यं नमः । । मातृभूमे नमः ।।
पं वासुदेव द्विवेदी शास्त्री
नमति गणेशं लिखति च लेखम् ।
पठति पुस्तकं स्वपिति च ससुखम् ।।संपदानंद मिश्र
वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ।।
गोविन्द गोविन्द हरे मुरारे
गोविन्द गोविन्द रथाङ्गपाणे ।
गोविन्द गोविन्द मुकुन्द कृष्ण
गोविन्द गोविन्द नमो नमस्ते ।।
श्रीराम राम रघुनन्दन राम राम श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम भरताग्रज राम राम श्रीराम राम शरणं भव राम राम ।।
तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर ।
यादृशोऽसि महादेव तादृशाय नमोनमः ।।
अञ्जनानन्दनं वीरं जानकीशोकनाशनम् ।
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ।।
एकम् एकम् । द्वे द्वे । त्रीणि त्रीणि । चत्वारि ।
पञ्च पञ्च । षट् षट् । सप्त अष्ट । सप्त अष्ट ।
नव दश नव दश नव दश नव दश ।।
हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।
श्रोत्रस्य भूषणं शास्त्रं भूषणैः किं प्रयोजनम् ।।
नास्ति लोभसमो व्याधिः नास्ति क्रोधसमो रिपुः ।
नास्ति विद्यासमो बन्धुः नास्ति ज्ञानसमं सुखम् ।।
अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते ।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ।।
शुकवद् भाषणं कुर्यात् बकवद् ध्यानमाचरेत् ।
अजवत् चर्वणं कुर्यात् गजवत् स्नानमाचरेत् ।।
मुण्डे मुण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं जलम् ।
देशे देशे नवाचारा नवावाणी मुखे मुखे ।।
अग्निमीले पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारं रत्नधातमम् । ।
ऋग्वेदः, १ .१ .१
सत्यं वद । धर्मं चर । स्वाध्यायान् मा प्रमदः ।
मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव ।
श्रद्धया देयम् । अश्रद्धया अदेयम् । श्रिया देयम् । ह्रिया देयम् ।
भिया देयम् । संविदा देयम् ।। तैत्तिरीय-उपनिषद्
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ।। श्रीमद्भगवद्गीता, ६.३०
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपनि नमस्तश्रव पादरणश क्षमस्व मे । ।
चन्दनं वन्दते नित्यं पवित्रं पापनाशनम् ।
आपदं हरते नित्यं लक्ष्मीः वसतु सर्वदा ।।
त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये ।
गृहाण सन्मुखो भूत्वा प्रसीद परमेश्वर ।।
Copyright © 2025. All Rights Reserved