Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
गजाननं भूतगणाधिसेवितम्
कपित्थ जम्बूफलचारुभक्षणम्।
उमासुतं शोकविनाशकारकं
नमामि विघ्नेश्वरपादपङ्कजम्।।
शरीरं सदा बालकैः रक्षणीयम् ।
शरीरं सदा बालकैः रक्षणीयम् ।।
शरीरेण शोभा शरीरेण सिद्धिः
शरीरेण लोके समस्ता समृद्धिः ।
शरीरेण अन्नं शरीरेण वस्त्रम्
शरीरेण पुत्रः सुता वा कलत्रम् ।
अपथ्यं न अन्नं क्वचिद् भक्षणीयम्
शरीरं सदा बालकैः रक्षणीयम् ।।
शरीरेण विद्या शरीरेण बुद्धिः
शरीरेण ज्ञानं शरीरेण शुद्धिः ।
शरीरेण पूजा शरीरेण योगः
शरीरेण सौख्यं शरीरेण भोगः ।
शरीरं शिशो! जातु नोपेक्षणीयम्
शरीरं सदा बालकैः रक्षणीयम् ।।
शरीरं सदा देहिनां धर्ममूलम्
शरीरं सदा देहिनां कर्ममूलम् ।
शरीरं सदा देहिनां शर्ममूलम्
शरीरं सदा देहिनां सर्वमूलम् ।
शरीरं ततः सर्वथा पोषणीयम्
शरीरं सदा बालकैः रक्षणीयम् ।।
पं वासुदेव द्विवेदी शास्त्री
हे हेरम्ब ! किमम्ब ! रोदिषि कुतः? कर्णौ लुठत्यग्निभूः
किं ते स्कन्द विचेष्टितं ? मम पुरा सङख्या कृता चक्षुषाम् ।
नैतत् तेप्युचितं गजास्य ! चरितं नासां मिमीतेऽम्ब मे
श्रुत्वैवं सुतयोर्गिरं गिरिसुता स्मेरानना पातु वः ।।
गर्जन्ति कूजन्ति पचन्ति यान्ति क्रन्दन्ति खेलन्ति वदन्ति पान्ति ।
रक्षन्ति यच्छन्ति वहन्ति भान्ति स्मरन्ति पृच्छन्ति लिखन्ति सन्ति।।
राजति स्वच्छसुनीलं गगनम् ।
पश्यत तत्र च चन्द्रं पूर्णम् ।।
स्वच्छे नीरे खेलति हंसः ।
विकसति कमलं प्रसरति वासः ।।
गर्जति मेघो यच्छति तोयम् ।
चातकपक्षी सन्तुष्टोSयम् ।।
कृष्णवारिदः गर्जति गगने ।
नृत्यति केकी गहने विपिने ।।
सम्पदानन्दमिश्रः
पिता स्वर्गः पिता धर्मः पिता हि परमं तपः।
पितरि प्रीतिमापन्ने प्रीयन्ते सर्वदेवताः ॥
यज्जाग्रतो दूरमुदैति दैवम् तदु सुप्तस्य तथैवैति ।
दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु । । यजुर्वेदः, ३४ .१
विश्वानि देव सवितर्दुरितानि परा सुव । यद् भद्रं तन्न आ सुव। ऋग्वेदः, ५.८२ .५
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।।
श्वेताश्वतरोपनिषद्, ६.२१
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत् कवयो वदन्ति । । कठोपनिषद् ३ .१४
श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति । । श्रीमद्भगवद्गीता, ४ .३ ९
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।। श्रीमद्भगवद्गीता, ९.२६
न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेनो नुन्ननुन्ननुत् ।।
काकः कायति का आ का आ ।
शिशुजनवदने मा आ मा आ ।।
कोकिलकण्ठात् पञ्चमनादम्।
शृणु परिहर निजचित्तविषादम् ।।
पक्षी कूजति गीतं चूं चूं ।
शङ्खः कुरुते शब्दं भूँ भूँ ।।
झुम झुम झुम झुम नृत्यति बाला ।
कण्ठे विलसति चम्पकमाला ।।
छागी रोदिति मेँ मेँ मेँ मेँ ।
भेरी जनयति शब्दं भेँ भेँ भेँ भेँ ।।
घोटक एति च टप् टप् टप् टप् ।
भेकः प्लवते सलिले खप् खप् ।।
हस्ती गर्जति गँ गँ गँ गँ ।
तर्जति सर्पः फँ फँ फँ फँ ।।
गौरीकुमारः ब्रह्मा
Copyright © 2025. All Rights Reserved