Devabhasha Songs and Shlokas

Songs and shlokas

Class 2

Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.

Listen to Jaya Jaya Devi Characharasare

जय जय देवि चराचरसारे उरसि सुशोभित-मुक्ताहारे ।
वीणापुस्तकरञ्जितहस्ते भगवति भारति देवि नमस्ते ।।

Listen to Eshah Janakah Eshaa Janani

एषः जनकः एषा जननी ।
एषः भ्राता एषा भगिनी ।।
एतन् मित्रम् एषः बन्धुः ।
एतत् चित्रम् एषः सिन्धुः ।।

एषा नारी एषा तारा ।
एषा गौरी एषा धारा ।।

एषः बालः एषा बाला ।
एषः ग्रामः एषा शाला ।।

एतत् पुष्पम् एषा माला ।
एतत् सेवम् एषा लाला ।।

एषः शशकः एष बिडालः ।
एषः मशकः एषः जालः ।।

एषः दण्डः एषः इक्षुः ।
एषः वृद्धः एषः भिक्षुः ।।

Listen to Eshah Vrikshah

एषः वृक्षः विशालवृक्षः
वृक्षे नीडः अतिलघुनीडः ।
नीडे पक्षी पीतः पक्षी
करोति गानं चिचिची चिचिची ।।
श्री अरविन्दाश्रमः, पुदुच्वेरी

Listen to GHATE MADEYA

घटी मदीया ब्रूते टन् टन्
चलति तदीया सूची सततम् ।
नहि कदापि अवकाशं लभते
सदा मदीयां सेवां कुरुते ।।
पं वासुदेव द्विवदी शास्त्री

Listen to KHELAM KURU

खेलां कुरु खेलन समये
पाठकाले च कुरु पठनम् ।
भोजनं कुरु भोज्यसमये
कार्यान्ते कुरु विनोदनम् ।।

Listen to SHWETAH HARITAH

श्वेतः हरितः पीतः नीलः
रक्तः शोणः धूम्रः कालः ।
अरुण-पाटल-नारङ्ग-पिङ्गाः
धूसर-कपिश-कषाय-पिशङ्गाः ।।

Listen to Svasti Panthamanucharema

स्वस्ति पन्थामनुचरेम सूर्याचन्द्रमसाविव ।
पुनर्ददताघ्नता जानता सं गमेमहि ।। ऋग्वेदः, ५.५१. १५

Listen to Yastu Sarvani Bhutani

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।। इशोपनिषद्, ६

Listen to Esha Devo Vishvakarma

एष देवो विश्वकर्मा महात्मा सदा जनानां हृदये संनिविष्टः ।
हृदा मनीषा मनसाभिक्लृप्तो य एतद् विदुरमृतास्ते भवन्ति ।।
श्वेताश्वतरोपनिषद् ४. १७

Listen to Uddharedaatmanatmanam

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ।। श्रीमद्भगवद्गीता, ६.५

Listen to DADADO DUDDA

दाददो दुद्ददुद्दादी दाददो दूददीददोः ।
दुद्दादं दददे दुद्दे दादाददददोsददः ।।

Listen to Shundat Shum Shum

शुण्डात् शुं शुं शब्दं कृत्वा
मन्दं मन्दं चलति गजः ।
घण्टाभिः टन् टन् टन् कृत्वा
अग्रे अग्रे चलति गजः ।।
उदरं स्थूलं विस्तृतभालं
पर्वतचालं चलति गजः ।
शुण्डात् शुं शुं शब्दं कृत्वा
मन्दं मन्दं चलति गजः ।।

चरणं चरणं तरुवरसदृशं
धम् धम् धम् धम् चलति गजः ।
शुण्डात् शुं शुं शब्दं कृत्वा
मन्दं मन्दं चलति गजः ।।

शशिपाल शर्मा-बालमित्र

Listen to Aham Pathami Samskritam

अहं पठामि संस्कृतम्
अहं वदामि संस्कृतम् ।
अहं लिखामि संस्कृतम्
सदैव सुन्दराक्षरम् ।।
अहं स्मरामि मातरम्

अहं भजामि मातरम् ।
अहं नमामि मातरम्
सदैव भक्तिपूर्वकम् ।।

सुरभारती, श्री अरविन्दाश्रमः पुदुच्चेरी

Listen to Kunde Kunde Navam Jalam

मुण्डे मुण्डे मतिर्भिन्ना कुण्डे कुण्डे नवं जलम् ।
देशे देशे नवाचारा नवावाणी मुखे मुखे ।।
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे ।
साधवो न हि सर्वत्र चन्दनं न वने वने ।।

Listen to Ghada Ghada Ghada Ghada

घड घड घड घड गर्जति मेघः ।
टरर टरर टर रोदिति भेकः ।।
छनन छनन छन रणति शिञ्जिनी ।
झनन झनन झन क्वणति किङ्किणी ।।

टनन टनन टन नदति घण्टिका ।
भण भण भण भण भणति मक्षिका ।।

वदति स्परर शर रुचिरनिर्झरः ।
वहति झरर झर मन्दसमीरः ।।

टप टप टप टप याति घोटकः ।
नृत्यति थथथै थथै नर्तकः ।।

फँ फँ शब्दैः फणति पन्नगः ।
मे मे नादं कुरुते छागः ।।

झीं झीं झीं झीं रवीति झिल्ली ।
सुशोभते च कुसुमितवल्ली ।।

रौति कुक्कुटः कुक् कुक् कुक् कुक् ।
गच्छति यानं छुक् छुक् छुक् छुक् ।।

गच्छन् मार्गे स्वपिति च शशकः ।
गुणु गुणु शब्दं करोति मशकः ।।

मन्दं मन्दं चलति कर्कटः ।
पश्यति वृक्षात् बालमर्कटः ।।

सम्पदानन्दमिश्रः

Listen to SATYAMARGAMANUSARA

सत्यमार्गमनुसर सत्यवचनमुच्चर ।
सत्यमेव जयते सत्यं न हि विस्मर ।।

Listen to Gantri Gachhati

गन्त्री गच्छति गन्त्री गच्छति
अग्रे गच्छति पृष्ठे गच्छति
उच्चैः गच्छति नीचैः गच्छति ।।
गन्त्री गच्छति…
मन्दं गच्छति शीघ्रं गच्छति
वक्रं गच्छति सरलं गच्छति
झक् झक् झक् झक् गानं गायति ।।
गन्त्री गच्छति…

मध्ये मध्ये तिष्ठति
यदा कदाचित् युध्यति
यदा कदाचित् निपतति
पुनः उपरि उत्तिष्ठति ।।
गन्त्री गच्छति…

पं वासुदेव द्विवदी शास्त्री

Listen to Mitrasyaham Chakshusha

मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।
मित्रस्य चक्षुषा समीक्षामहे ।। यजुर्वेदः, ३६.१८

Listen to Yasmin Sarvani Bhutani

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः ।
तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ।। ईशोपनिषद् ७

Listen to Yatkaroshi Yadashansi

यत्करोषि यदश्नासि यज्जुहोसि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ।। श्रीमद्भगवद्गीता, ९.२७