Devabhasha Songs and Shlokas

Songs and shlokas

Class 4

Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.

Listen to Yatraiva Yatraiva

यत्रैव यत्रैव मनो मदीयम् तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयम् तत्रैव तत्रैव पदद्वयं ते । ।

Listen to Namami Narayana

वदामि नारायण नाम निर्मलम् । स्मरामि नारायणतत्त्वमव्ययम् ।।

Listen to Patha Samskritam
पठ संस्कृतम् पठ संस्कृतम् । अतिसुन्दरं मृदुमञ्जुलम् ।। १ ।। पठ संस्कृतम् … शृणु संस्कृतम् लिख संस्कृतम् । जनमानसे चिर-सञ्चितम् ।। २ ।। पठ संस्कृतम्… वद संस्कृतं मधुरामृतम् । सुरवागिति जनवन्दितम् ।। ३ ।। पठ संस्कृतम्… भज संस्कृतम् रट संस्कृतम् । कविकालिदाससुभाषितम् ।। ४ ।। पठ संस्कृतम्… स्मर संस्कृतम् गुणमण्डितम् । शुभदायकं भुवि कीर्तितम् ।। ५ ।। पठ संस्कृतम्…
Listen to TWAJJEVANAM
त्वज्जीवनं पुष्प सुधन्यधन्यं समर्प्यते यत् प्रभुपादपद्मे । मालाश्व ते सङग्रथिता सुरम्या विभूषयन्ते महतां शिरांसि ।।
Listen to Shashinaa cha Nishaa

शशिना च निशा निशया च शशी ।
शशिना निशया च विभाति नभः ।।
पयसा कमलं कमलेन पयः ।
पयसा कमलेन विभाति सरः ।।

मणिना वलयं वलयेन मणिः ।
मणिना वलयेन विभाति करः ।।

कविना च विभुः विभुना च कविः ।
कविना विभुना च विभाति सभा ।।

Listen to Kavya Shastra Vinodena

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा ।।

Listen to Danena Panir
दानेन पाणिर्न तु कङ्कणेन स्नानेन शुद्धिर्न तु चन्दनेन । मानेन तृप्तिर्न तु भोजनेन ज्ञानेन मुक्तिर्न तु मुण्डनेन ।।
Listen to EKAM DASHA
एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियतं चैव कोटिरर्बुदमेव च ।।
Listen to VRINDAM KHARVO
वृन्दं खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः। अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम्॥
Listen to KASTWAM BALA

कस्त्वं बाल ! बलानुजः त्वमिह किं मन्मन्दिराशङ्कया
बुद्धं तन्नवनीतकुम्भविवरे हस्तं कथं न्यस्यसि ।
कर्तुं तत्र पिपीलिकापनयनं, सुप्ताः किमुद्बोधिता
बाला, वत्सगतिं विवेक्तुमिति सञ्जल्पन् हरिः पातुः वः।।

Listen to RAMABHISHEKE

रामाभिषेके मदविह्वलाया
हस्ताच्च्युतो हेमघटस्तरुण्याः ।
सोपानमासाद्य करोति शब्दं
ठठं, ठठं ठं ठठठं ठठं ठः ।।

Listen to JITADHUMA SAMUHAAYA

जितधूमसमूहाय जितव्यजनवायवे ।
मशकाय मया कायः सायमारभ्य दीयते ।।

Listen to Yasya Nasti Svayam Prajna

यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ।।

Listen to Adhamah Dhanamichanti

अधमाः धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ।।

Listen to JALAVINDU NIPATENA

जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ।।

Listen to Sukharthi Chet

सुखार्थी चेत् त्यजेद्विद्यां विद्यार्थी चेत् त्यजेत् सुखम् ।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।।

Listen to EKENAPI SUVRIKSHENA

एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ।
वासितं तद्वनं सर्व सुपुत्रेण कुलं यथा ।।

Listen to Bharatam Bharatam

भारतं भारतं भवतु भारतम्
भारतं भारतं भवतु भारतम् ।
शक्ति ​ सम्भृतं युक्ति सम्भृतंम्
शक्ति-युक्ति सम्भृतं भवतु भारतम् ।।
शस्त्रधारकं शास्त्रधारकम्
शस्त्र-शास्त्रधारकं भवतु भारतम् ।
रीतिसंस्कृतं नीतिसंस्कृतम्
रीति-नीति संस्कृतं भवतु भारतम् ।।
कर्मनैष्ठिकं धर्म नैष्ठिकम्
कर्म- धर्मनैष्ठिकं भवतु भारतम् ।
भुक्तिसाधकं मुक्तिसाधकम्
भुक्ति-मुक्तिसाधकं भवतु भारतम्।।
श्रीधरभास्कर वर्णेकर

Listen to Udvayam Tamasaspari

ओम् उद्वयं तमसस्परि स्वः पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ।।
ऋग्वेदः, १.५०.१०

Listen to Tachakshur Devahitam

ओम् तच्चक्षुर्देवहितं पुरस्तात् शुक्रमुच्चरत् । पभ्येम शरदः शतम् ।
जीवेम शरदः शतम् । शृणुयाम शरदः शतम् ।
प्रब्रवाम शरदः शतम् ।अदीनाः स्याम शरदः शतम् ।
भूयश्च शरदः शतात् ।।
यजुर्वेदः, ३६.२४

Listen to Na Tatra Suryo Bhati

न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ।।
मुण्डकोपनिषद् २. ११

Listen to Yatha Nadyah Syandamana

यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय ।
तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ।।
मुण्डकोपनिषद्, ३. ८

Listen to Duhkheshvanudvignamanah

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ।।
श्रीमद्भगवतद्गीता २.५६

Listen to Yadyadacharit Shreshthah

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्पमाण कुरुते लोकस्तदनुवर्तते ।।
श्रीमद्भगवतद्गीता, ३.२

Listen to NARAH SARSHHAPA

नरः सर्षपतुल्यानि परछिद्राणि पश्यति ।
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ।।

Listen to BHUREBHIRBHARI

भूरिभिर्भारिभिर्भीराभूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभा ।।