Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
ओङ्कारं बिन्दु संयुक्तं
नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं चैव
ओङ्काराय नमो नमः ।।
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
परात्परायेति समर्पयामि ।।
मूकं करोति वाचालं
पङ्गुं लङ्घयते गिरिम् ।
यत्कृपा तमहं वन्दे
परमानन्दमाधवम् ।।
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र ।
येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ।।
चल चल पुरतो निधेहि चरणम् ।
सदैव पुरतो निधेहि चरणम् । ।
गिरिशिखरे तव निजनिकेतनम्
समारोहणं विनैव यानम् ।
आत्मबलं केवलं साधनं
सदैव पुरतो निधेहि चरणम्
पथि पाषाणाः विषमाः प्रखराः
तिर्यञ्चोऽपि च परितो घोराः ।
सुदुष्करं खलु यद्यपि गमनं
सदैव पुरतो निधेहि चरणम्
प्रयत्नसाध्या लोके नीतिः
समाजधारिणी कुशला बुद्धिः ।
तस्मात् साधय सत्त्वरक्षणम्
सदैव पुरतो निधेहि चरणम्
जहीहि भीतिं हृदि भज शक्तिं
देहि देहि रे भगवति भक्तिम् ।
कुरु कुरु सततं ध्येयस्मरणम् ।।
सदैव पुरतो निधेहि चरणम् ।। ४ ।।
श्रीधर भास्कर वर्णेकर
उच्चैरेष तरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः
पक्वं शालिवनं विहाय सहसा तं नारिकेलं गतः ।
तत्रारुह्य बुभुक्षितेन मनसा यत्नः कृतो भेदने
आशा तत्र न केवलं विफलिता चञ्चुर्गता चूर्णताम् । ।
रात्रिर्गमिष्यति भविष्यति सुप्रभातम्
भास्वान् उदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोषगते द्विरेफे
हा हन्त! हन्त! नलिनीं गज उज्जहार । ।
अपदो दूरगामी च साक्षरो न च पण्डितः ।
अमुखो स्फुटवक्ता च यो जानाति स पण्डितः । ।
अस्थि नास्ति शिरो नास्ति बाहुरस्ति निरङ्गुलिः ।
नास्ति पादद्वयं किन्तु गाढम् आलिङ्गति स्वयम् । ।
कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी ।
पञ्चभर्त्री न द्रौपदी यो जानाति स पण्डितः । ।
वृक्षाग्रवासी न च पक्षिराज त्रिनेत्रधारी न च शूलपाणिः ।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च विभ्रन् न घटो न मेघः ।।
यथा देशः तथा भाषा यथा राजा तथा प्रजा ।
यथा भूमिः तथा तोयं यथा बीजं तथा तरुः ।।
यावत् भारतवर्षं स्यात् यावत् विन्ध्यहिमाचलौ ।
यावत् गङ्गा च गोदा च तावदेव हि संस्कृतम् । ।
उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
षडेते यत्र वर्तन्ते तत्र देवः सहायकः । ।
यद्यपि बहु नाधीषे तथापि पठ पुत्र व्याकरणम् ।
स्वजनो श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् । ।
यस्माच्च येन च यदा च यथा च यच्च
यावच्च यत्र च शुभाशुभमात्मकर्म ।
तस्माच्च तेन च तदा च तथा च तच्च
तावच्च तत्र च कृतान्तवशादुपैति । ।
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग्भवेत् ।।
अतिलोभो न कर्तव्यो लोभं चैव परित्यजेत् ।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ।।
लोभमूलानि पापानि सङ्कटानि तथैव च ।
लोभात् प्रवर्तते वैरम् अतिलोभाद्विनश्यति ।।
लोभात् क्रोधः प्रभवति लोभात् कामः प्रजायते ।
लोभान्मोहश्च नाशश्च लोभः पापस्य कारणम् ।।
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभः तस्मादेतत् त्रयं त्यजेत् ।।
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति ।
कामं हित्वार्थवान् भवति लोभं हित्वा सुखी भवेत् । ।
रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ।।
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥
विद्या विवादाय धनं मदाय शक्तिः परेषां परपीडनाय ।
खलस्य साधोर्विपरीतमेतत् ज्ञानाय दानाय च रक्षणाय ॥
दुर्गे दुर्गतिहारिणि वन्दे कमले कमलविहारिणि वन्दे ।
देवि सरस्वति मतिदे वन्दे जगति सदा शुभगतिदे वन्दे । । १ । ।
गङ्गे त्रिभुवनतारिणि वन्दे यमुने दुरितविदारिणि वन्दे ।
गोदावरि गतिदायिनि वन्दे सिन्धो सुमतिविधायिनि वन्दे । । २ । ।
गिरिवर विन्ध्य हिमालय वन्दे नदनदीश वरुणालय वन्दे ।
हे प्रयाग तीर्थेश्वर वन्दे वाराणसि रामेश्वर वन्दे । । ३ । ।
वाल्मीके कविनागर वन्दे व्यासदेव मतिसागर वन्दे ।
बुद्ध सत्यसन्धायक वन्दे महावीर मुनिनायक वन्दे ।। ४ ।।
ज्ञानिवर्य हे शङ्कर वन्दे भेदभावविलयङ्कर वन्दे ।
रामानुज जनतारक वन्दे भक्तिभावविस्तारक वन्दे । । ५ । ।
पं. वासुदेव द्विवेदी शास्त्री
सादरं समीयताम् वन्दना विधीयताम् ।
श्रद्धया स्वमातृभू-समर्चना विधीयताम् । । सादरं…
आपदो भवन्तु वा विद्युतो लसन्तु वा
आयुधानि भूरिशोऽपि मस्तके पतन्तु वा ।
धीरता न हीयतां वीरता विधीयताम्
निर्भयेन चेतसा पदं पुरो निधीयताम् । । सादरं…
प्राणदायिनी इयं त्राणदायिनी इयं
शक्तिभुक्तिमुक्तिदा सुधाऽनपायिनी इयम् ।
एतदीयवन्दने सेवनेऽभिनन्दने
साभिमानमात्मनो जीवनं प्रदीयताम् ।। सादरं…
पं. वासुदेव द्विवेदी शास्त्री
अनभ्यासे विषं विद्या अजीर्णे भोजनं विषम् ।
विषं सभा दरिद्रस्य दुर्जनस्य सुभाषितम् ।।
पिबन्ति नद्यः स्वयमेव नाम्भः स्वयं न खादन्ति फलानि वृक्षाः ।
नादन्ति सस्यं खलु वारिवाहाः परोपकाराय सतां विभूतयः ।।
सत्यं ब्रूयात् प्रियं ब्रूयात न ब्रूयात् सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः ।।भाषितम् ।।
सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।।
पुरो धाव पुरो धाव पुरो धाव प्रतिक्षणम् ।
गुहान्ते राजते ज्योतिः युद्धान्ते राजते जयः ।।
उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।
सर्पाः पिबन्ति पवनं न च दुर्बलास्ते
शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
कन्दैः फलैर्मुनिवराः क्षपयन्ति कालं
सन्तोष एव पुरुषस्य परं निधानम् ।।
उदये सविता रक्तो रक्तश्चास्तमने तथा ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता ।।
कोऽन्धः? योऽकार्यरतः को बधिरः? यो हितानि न शृणोति ।
को मूकः? यः काले प्रियाणि वक्तुं न जानाति ।।
वृश्चिकस्य विषं पुच्छं मक्षिकायाः विषं शिरः ।
तक्षकस्य विषं दन्तं सर्वाङ्गं दुर्जनस्य च ।।
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।। यजुर्वेदः, २५.२१
अग्न आयाहि वीतये गृणानो हव्यदातये ।
नि होता सत्सि बर्हिषि ।। सामवेदः, १. १. १
अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
ईशानो भूतभव्यस्य न ततो विजुगुप्सते । ।एतद् वै तत् ।। कठोपनिषद् २ .१ .१३
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।
हृदा हृदिस्थं मनसा य एनमेवं विदुरमृतास्ते भवन्ति ।। श्वेताश्वतरोपनिषद् ४. २०
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ।।श्रीमद्भगवद्गीता १८.६५
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।। श्रीमद्भगवद्गीता, १८.६६
अहं बालकः, लघुः बालकः ।
अल्पाऽवस्था, दुर्बलः कृशः ॥
हस्वं शरीरम् ॥
लघू मदीयौ बाहू, लघू मदीयौ पादौ ।
स्वल्पा शक्तिः, स्वल्पा बुद्धिः ॥
किन्तु मदीयं लक्ष्यम्, महाविशालम् ।
दूरे दूरे गन्तुम्, आकाशे उड्डयितुम् ॥
जातु चन्द्रमानेतुम्, जातु यमेन च योद्धुम्।
विश्वविजेता भवितुम्, जगतो नेता भवितुम् ॥
नूतन-ब्रह्मा भवितुम्, नूतन-सृष्टिं कर्तुम् ।
जगतः पापं हर्तुम्, सर्वं सुखिनं कर्तुम् ॥
धर्मराज्यमानेतुम्, भुवि स्वर्गं वासयितुम् ।
सदा मनः कामयते, इदं मनः कामयते ॥
इयं मदीया इच्छा।
एषा मम प्रतिज्ञा ॥
उरुगुं ध्युगुरुं युत्सु चुकुशुस्तुष्टुवुः पुरु।
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ।।
Copyright © 2025. All Rights Reserved