Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ।।
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ।।
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ।।
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः ।।
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ।।
पुरः पुरः प्रयाहि रे
प्रगाय मातृवन्दनम्
स्वजन्मभूमिरक्षणे
प्रदेहि वीर जीवनम्।। १ ।।
प्रयाहि देशगौरवम्
स्वराष्ट्रकेतुमुद्धरन्
पदं पदं प्रगच्छ रे
विजेतृभावमुद्वहन् ।। २ ।।
शिरोऽस्तु ते समुन्नतं
तवास्तु मा क्वचिद् भयम्
प्रभुस्तवास्तिपार्श्वतः
सुशस्त्रसज्जितः स्वयम्।। ३ ।।
पुरः पुरः प्रधाव रे
बलं तवाद्य वर्धताम्
यतः प्रभुस्ततो जयः
ततः सुवीर युध्यताम् ।। ४ ।।
रणे धृतिः सुकौशलं
प्रवर्धताम् मनोबलम्
जयस्तवास्ति निश्चितः
कुरु स्वधर्मपालनम् ।। ५ ।।
डा० नरेन्द्रः, श्री अरविन्दाश्रमः पुदुच्चेरी
वयं हि सर्वे भारतभक्ताः
वयं बालका भारतभक्ताः
वयं बालका भारतभक्ताः ।
वयं हि सर्वे भारतभक्ताः
पृथ्वीं स्वर्गं जेतुं शक्ताः ।। वयं बालका…
वयं सुवीराः वयं सुधीराः
हृष्टमानसाः पुष्टशरीराः ।
भूरि पठामो भूरि लिखामो
भवितास्मो जनहिते नियुक्ताः ।। वयं बालका…
जातिधर्ममतभेदं त्यक्त्वा
भारतवर्षं पूज्यं मत्वा ।
भगवद्भाव हृदये धृत्वा
भारतसेवायामनुरक्ताः ।। वयं बालका…
नरेन्द्रः – श्रीअरविंद आश्रम पुदुच्चेरी
छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे ।
फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव ।।
अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य
स्थितः पृथिव्या इव मानदण्डः ।।
मत्कुण-पिपीलिका-संवादः
मत्कुण उवाच
कथय भगिनि किं तव अभिधानम्
कथय कुत्र तव वासस्थानम् ।
कथय कुतः सम्प्रति आगच्छसि
त्वरितं कुत्र किमर्थं गच्छसि ।।
अङ्गं तव अतिशयसुकुमारम्
वहसि तथापि अहो गुरुभारम् ।
धावन्ती गच्छसि अविरामम्
कथय कदा कुरुषे विश्रामम् ।।
पिपीलिका उवाच
मम पिपीलिका इति अभिधानम्
विवरे विद्धि मदीयं स्थानम् ।
अति दूरादिह मम आगमनम्
दूरे एव पुनर्मम गमनम् ।।
कृत्वा स्वयं श्रमं भोक्तव्यम्
इति मे अस्ति निजमन्तव्यम् ।
अतः श्रमे सततं संलग्ना
नैव कदापि गतिर्मे भग्ना ।।
त्वं सदैव परतल्पे लीनः
पीत्वा पररुधिरं खलु पीनः ।
किन्तु इदं न उचितकर्तव्यम्
न इदं वेदशास्त्रमन्तव्यम् ।।
अतः श्रमं कृत्वा भोक्तव्यम्
इति भवताऽपि मतं मन्तव्यम् ।
अस्तु जहीहि देहि पन्थानम्
दूरे मम गन्तव्यस्थानम् ।।
पं. वासुदेव द्विवेदी शास्त्री
जात्या विहङ्गो न परं सपक्षः
शब्दायमानो गगने विहारी ।
युद्धानुकूलो न गजः न चाश्वः
विविच्य नाम्रा वद किं तदेतत् ।।
चक्री त्रिशूली न हरो न विष्णुः
महान् बलिष्ठो न च भीमसेनः ।
स्वच्छन्दगामी न च नारदोऽपि
सीतावियोगी न च रामचन्द्रः ।।
कस्तूरी जायते कस्मात्?
को हन्ति करिणां कुलम्?
किं कुर्यात् कातरो युद्धे?
मृगात् सिंहः पलायते ।
न तस्यादिर्न तस्यान्तः मध्ये यस्तस्य तिष्ठति ।
तवाप्यस्ति ममाप्यस्ति यदि जानाति तद् वद ।।
सुप्तोऽपि नेत्रे न निमीलयामि, जलस्य मध्ये निवसामि नित्यम् ।
स्वजातिजीवाः मम भोजनानि, वदन्तु मान्याः! मम नामधेयम् ।।
स्नेहं ददाति यो मह्यं नित्यं तस्मै ददाम्यहम् ।
ज्योतिः पदार्थज्ञानार्थं कोऽहं वदतु साम्प्रतम् ।।
शिखण्डेन सदा शोभे विशालेनापि पिच्छेन ।
गगने वारिदं दृष्ट्वा कोऽहं नृत्यामि सोल्लासम् ।।
धात्वर्थं बाधते कश्चित् कश्चित् तमनुवर्तते ।
तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधा ।।
।।
उपसर्गेण धात्वर्थः बलादन्यत्र नीयते ।
प्रहाराहारसंहारविहारपरिहारवत् ।।
भगवन्! त्वदीयभक्तिं न कदापि विस्मरेयम्।
निजदेशजातिसेवासक्तो हरे भवेयम्।। १ ।।
जायेत जातु नो मे परपीडनाभिलाषः ।
दीने सहायहीने सततं प्रभो! द्रवेयम्।। २ ।।
गतिरस्तु सर्वदेशे रतिरस्तु नैजवेशे ।
गुरुपादयोर्निदेशे स्वमनः प्रवर्तयेयम्।। ३ ।।
न विभो पराऽपवादे समुदेतु मेऽनुरागः ।
परकीयवित्तभागं मनसाऽपि नो हरेयम् ।। ४ ।।
कुरुते सदा विनीतो विनयं कृपैकसिन्धो ।
गुरु-पूज्य-वृन्द-सेवाकरणे वयो नयेयम् ।। ५ ।।
पं वासुदेव द्विवेदी शास्त्री
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ।
सर्वः कामानवाप्नोतु सर्वः सर्वत्र नन्दतु ।।
भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बुभिर्भूमिविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ।।
पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ।।
वरमेको गुणी पुत्रो निर्गुणश्च शतैरपि ।
एकश्चन्द्रः तमो हन्ति न च ताराः सहस्रशः ।।
यथा चतुर्भिः कनकः परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
तथा चतुर्भिः पुरुषः परीक्ष्यते कुलेन शीलेन गुणेन कर्मणा ।।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्व सत्ये प्रतिष्ठितम् ।।
पुष्पे गन्धं तिले तैलं काष्ठेऽग्निः पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः ।।
अतिदर्पे हता लङ्का अतिमाने च कौरवाः ।
अतिदाने वलिर्बद्धः सर्वमत्यन्तगर्हितम् ।।
वृथा वृष्टिः समुद्रेषु वृथा तृप्तेषु भोजनम् ।
वृथा दानं धनाढ्येषु वृथा दीपो दिवापि च ।।
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चापमानं मतिमान् न प्रकाशयेत् ।।
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ।।
उद्यमेनैव सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।।
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया ।
ह्लादयति हि पुरुषं यथा मधुरभाषिणी वाणी ।।
अभयं मित्रादभयममित्रादभयं ज्ञातादभयं परोक्षात् ।
अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवतु ।। अथर्ववेदः १९ .१ ५.६
अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् । इदमहममृतात्सत्यमुपैमि ।। यजुर्वेदः, १.५
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति।
यथा सतः पुरुषात् केशलोमानि तथाक्षरात्सम्भवन्तीह विश्वम्।।
मुण्डकोपनिषद्, १७
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ।। श्रीमद्भगवद्गीता, ६ .२ ६
श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः । । श्रीमद्भगवद्गीता, ३ .३ ५
सभासमानासहसापरागात् सभासमाना सहसा परागात् ।
सभासमाना सहसापरागात् सभासमाना सहसापरागात् ।।
Copyright © 2025. All Rights Reserved