Devabhasha: Songs, Shlokas and Mantras
Singers: Madhavi Chandolikar (Songs and Shlokas)
Mantra Chanting: Yashavardhan Bhat
Chorus: Manasi, Parkhi, Nupur Pandit, Nitya Joshi, Swati Nigam, Kartik Joshi, Harvir Singh, Minakshi Deo.
Music Composition: Rajesh Chandolikar and Madhavi Chandolikar
Recording: Ishrak Seikh at City Heart Digital Studio, Indore
Supervision: Dr. Sampadananda Mishra, Pondicherry
Copyright: © 2016 Seth MR Jaipuria School, Lucknow. All rights of owner and producer of the recorded work reserved. Unauthorized use and distribution, reproduction, copying, lending, adaptation, synchronization, public performance, broadcasting in any form of this recording is strictly prohibited and is a violation of the applicable laws.
असतो मा सद्गमय तमसो मा ज्योतिर्गमय।
मृत्योर्माऽमृतं गमय ॥
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग् भवेत्॥
करारविन्देन पदारविन्द मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुढे शयानं बाले मुकुन्द मनसा स्मरामि ॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥
शृणुत संस्कृतम् दिव्यसंस्कृतम् ।
वदत संस्कृतम् मधुरसंस्कृतम् ॥
पठत संस्कृतम् सरससंस्कृतम् ।
लिखत संस्कृतम् सुन्दराक्षरम् ॥
एहि एहि चन्दिर श्वेतकिरण सुन्दर ।
नीलगगनमन्दिर सकलजनमनोहर ।।
अयं घोटकः श्वेतघोटकः
चलति टबक टबक मम प्रियः घोटकः ॥
खादति घासं धावति शीघ्रं
स्वपिति हि स्वल्पं मम प्रियः घोटकः ॥
स्थूलं पुच्छं चिक्कण पृष्ठं
सुखयति सततं मम प्रियः घोटकः ॥
परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः ।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥
नमस्ते गणपतये। त्वमेव तत्त्वमसि ।
त्वमेव केवलं कर्तासि । त्वमेव केवलं धर्तासि ।
त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि ॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ॥
श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम ॥
मम कर्णद्वयम् मम नेत्रद्वयम् ।
मम मस्तकम् मम नासिका ॥
मम स्कन्धः मम ग्रीवा हृदयम् ।
मम पृष्ठम् मम मुखम् नखम् ॥
कियती तन्वी कियती सरला
कियती लघ्वी कियद् दुर्बला ।
पिपीलिका सा कियती ह्रस्वा
पिपीलिका सा कियती ह्रस्वा ॥
वीरबालकाः वयम् वीरबालकाः वयम् ॥
सागरं समुत्तरेम गगनतले उत्पतेम
वीरबालकाः वयम् ॥१।।
भूतले पर्वते उत्सवे संग्रामे सर्वतो वयं जयेम
वीरबालकाः वयम् ॥ २ ॥
निर्भया सदा भवेम नो कदापि वित्रसेम
वीरबालकाः वयम् ॥
उदयति सूर्यः रजनी याति ।
विकसति पुष्पं पवनो वाति ॥
प्रसरति गन्धः गुञ्जति भृङ्गः ।
उदयाकाशे अभिनवरङ्गः॥
Copyright © 2025. All Rights Reserved